२०२५ तमस्य वर्षस्य मिस् वर्ल्ड इति उपाधिं प्राप्तवती थाईलैण्ड्देशस्य ओपल् सुचाता चुआङ्गसरी इदानीं लोकवार्तायां वर्तते। “मिस् वर्ल्ड्”-विजयस्य अनन्तरं ओपल-सुचाता भारतस्य अनेकेषां मन्दिराणां भ्रमणस्य इच्छां प्रकटितवती। अयोध्यायाः राममन्दिरमपि तस्याः सूच्यां समाविष्टम् अस्ति। IANS इत्यनेन सह वार्तालापं कुर्वती सा भारतस्य थाईलैण्डदेशस्य च सांस्कृतिकसम्बन्धस्य विषये अपि मुक्ततया उक्तवती।