Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

उत्तरप्रदेशस्य राजनीतौ कोंग्रेसदलस्य कूटयोजनान्तर्गतं कोंग्रेस-अध्यक्षस्य राहुलस्य भगिनी प्रियङ्का वाड्रा आधिकारिकरूपेण दायित्ववती जाता । दलेन तस्याः नियुक्तिः पूर्वोत्तरप्रदेशस्य महासचिवरूपेण कृता । एतेन सहैव ज्योतिरादित्यसिंधिया अपि पश्चिमोत्तरप्रदेशस्य महासचिवरूपेण नियुक्तः ।

लोकसभानिर्वाचनस्य कूटयोजनान्तरगतम् कोंग्रेसदलस्य इदं मायाजालं भाजपादलस्य कृते घातकं भवितुमर्हति । अनेन भाजपादलेन अपि स्वयोजनायां परिवर्तनं करणीयं भविष्यति ।

अद्यतनवार्ता

भारतम्

विश्वम्