जम्मू-कश्मीरराज्यस्य बेसरन्-क्षेत्रे जाते आक्रमणे नैके जना: मृता: आहता: च। एतादृश्यां परिस्थितौ अस्य आक्रमणस्य विषये समीपस्थस्य देशस्य पाकिस्तानस्य प्रथमा प्रतिक्रिया प्रकाशिता। भयभीतस्य पाकिस्तानस्य रक्षामन्त्री ख्वाजा आसिफः अवदत् यत् अस्मिन् अस्माकं कोऽपि सम्बन्धः नास्ति। वयं सर्वाणि आतङ्कवादकृत्यानि तिरस्कुर्म:।' पाकिस्तानस्य टीवी-वार्ता-वाहिन्या: समक्षं वक्तव्यं यच्छन् स: आरोपितवान् यत् अस्य आक्रमणस्य पृष्ठे भारतस्य जनाः सन्ति। तत्रत्याः जनाः सर्वकारस्य विरुद्धं विद्रोहं कृतवन्तः। भारतस्य वर्तमानसर्वकारः तत्र निवसत: अल्पसंख्याकान् पीडयति अस्मिन् बौद्धाः, क्रैस्ता:, मुसलमानाः च सन्ति। जनानां नरसंहारः क्रियते। अस्य विरुद्धं जनाः स्वरं उत्थापयन्ति। एतादृशैः आतङ्कवादिघटनाभिः सह अस्माकं कोऽपि सम्बन्धः नास्ति। एतादृशानाम् आक्रमणानां वयं निन्दां कुर्म:।