Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

प्रधानमन्त्री नरेन्द्रमोदी विदेशयात्रायाः तृतीये चरणे बहरीनदेशं प्राप्तः । तत्र तस्य स्वागतं बहरीनदेशस्य राजकुमारः खलीफा-बिन-सलमान-अल-खलिफा कृतवान् । भारतीयप्रधानमन्त्रिणः इयं प्रथमयात्रा अस्ति । अत्र नेशनल-स्टेडियम इति स्थाने तत्र निवसतां भारतीयसमुदाय-जनान् सम्बोधयन् नरेन्द्रमोदिना उक्तं यत् अहं भारते नास्मि इति अत्रागत्य अहं नैव अनुभवामि । बहरीनभारतयोः सम्बन्धः वाणिज्यसम्बन्धात् परः अस्ति । द्वयोः देशयोः समानता अपि अधिका अस्ति । उभयत्र पारिवारिकमूल्यानां महत्त्वं अधिकमस्ति । अद्य जन्माष्टमी अस्ति । अहं सम्पूर्णदेशाय भारतीयसमुदाय च मम शुभकामनाः ददामि । अद्य सम्पूर्णे भारते जन्माष्टमीपर्वणः उत्साहः अस्ति परन्तु अहं शोकपूर्णः अस्मि इति पूर्ववित्तमन्त्रिणं जेटली-अरुणं स्मरन् सः उक्तवान् । तेनोक्तं यत् कतिपय दिनेभ्यः पूर्वं सुषमास्वराजः दिवङ्गता, अद्य मम मित्रं दिवङ्गतः । तस्य गमनेन दु:खितः अस्मि । परन्तु कर्तव्यबद्धोऽहम् । बहरीनभूमितः अहं भ्रात्रे अरुणाय़ श्रद्धाञ्जलिं ददामि ।

अद्यतनवार्ता

भारतम्

विश्वम्