Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

केन्द्रीयगृहमन्त्रिणा अमितशाहेन अद्य राज्यसभायां जम्मूकश्मीरयोः सीमाक्षेत्रवासिनां आरक्षणाय अपि च राज्ये षण्मासानां राष्ट्रपतिशासनाय प्रस्तावः प्रस्तुतः। प्रस्तुते अस्मिन् प्रस्तावे टी.एम.सी. बी.जे.डी. वाइएसआरसीपी  इत्यादयः दलाः अपि समर्थनं कृतवन्तः। विपक्षद्वारा पृष्टस्य उत्तरे अमितशाहेनोक्तं यत् राष्ट्रपतिशासनं केवलं सुरक्षाकारणेभ्यः अपेक्षते । आतङ्कवादं प्रति सर्वकारस्य नीतिः स्पष्टा अस्ति । कश्मीरं भारतस्य अभिन्नम् अङ्गमस्ति । न कोऽपि देशः एतस्य विभाजनं कर्तुं शक्नोति । सर्वकारद्वारा प्राप्तः सहयोगः न केवलं परिवाराणां कृते परन्तु प्रतिजनं गच्छेत् इति अस्माकं भावना अस्ति । ये भारतं त्रोटयितुं इच्छन्ति तान् यथायोग्यं उत्तरं दास्यामः । ये भारतेन सह सन्ति तेषां कल्याणस्य चिन्तां वयं करिष्यामः । सः कालः अपि आगमिष्यति यदा कश्मीरपण्डिताः क्षीरभवानीमन्दिरे निर्भयाः भूत्वा अर्चनां करिष्यन्ति ।

अद्यतनवार्ता

भारतम्

विश्वम्