Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

राहुलगान्धिनः “भारत-जोडो” यात्राया: राजस्थानागमनात् पूर्वमेव कोंग्रेसदले पुनश्च कर्षणमारब्धम्। सचिनस्योपरि वाक्प्रहारं कुर्वता गहलोतेन कथितं यत् सः कथं मुख्यमन्त्री भवितुं शक्नोति? तस्य समीपे दश विधायकाः अपि न सन्ति। येन विद्रोह: कृतः, यस्मै विश्वासघातकः इति नामाभिधानं दत्तं तं जनाः कथं स्वीकरिष्यन्ति? तस्य प्रत्युत्तरे सचिनेन गदितं यत् सः पूर्वमपि एतादृशानां शब्दानां प्रयोगं कृतवान् अस्ति। अधुना कालः भाजपादलेन सह युद्धस्स्यास्ति। अनुभविना नेत्रा असुरक्षितैः न भवितव्यम्।  

अद्यतनवार्ता

भारतम्

विश्वम्