Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

पूर्वविदेशमन्त्रिणः सुषमास्वराजस्य हृदयघातात् निधनम् । सुषमास्वराजः भाजपादलस्य वरिष्ठनेतृषु अन्यतमा आसीत् । सा स्वस्य ओजस्वितापूर्णवक्तृत्वकौशलेन प्रख्याता आसीत् ।

तस्याः जन्म १९५३ तमे वर्षे फरवरीमासस्य चतुर्दशदिनाङ्के अभवत् आसीत्। सा सर्वोच्चन्यायालये अधिवक्त्रीरूपेण अपि कार्यं कृतवती आसीत्। पूर्वप्रधानमन्त्रिण्याः इन्दिरागान्धिनः पश्चात् सा द्वितीया महिला आसीत् यया विदेशमन्त्रालयः सञ्चालितः आसीत् । केवलं पञ्चविंशतिः वयसि एव १९७७ तमे वर्षे मन्त्रिपरिषदि समाविष्टा आसीत् । देहल्याः मुख्यमन्त्रिरूपेणापि तया कार्यं कृतमासीत्। अमेरिकादेशस्य वॉल-स्ट्रीट-जर्नलद्वारा ’बेस्ट लव्ड पॉलिटिशियन’ इति सम्मान: अपि दत्तः आसीत् ।

निधनात् पूर्वं सा स्वस्था एव आसीत् । चतुर्होरापूर्वमेव तया स्वट्विटरलेखातः नरेन्द्रमोदिने कश्मीरप्रकरणे अभिनन्दनानि पाठयन्त्या उक्तं आसीत् यत् एतस्य दिनस्य एव प्रतीक्षां कुर्वती आसम् इति।

अद्यतनवार्ता

भारतम्

विश्वम्