Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

पुलवामाक्रमणकारणात् समग्रविश्वं दुःखग्रस्तमस्ति । आतङ्कवादं समूलं नाशयितुं सर्वैः राष्ट्रैः यथायोग्यं प्रतिकारार्थं स्वमतं प्रकटितमस्ति। सर्वेऽपि भारतीयाः शोकग्रस्ताः नाना प्रकारैः स्वक्रोधं संवेदनां च प्रकटयन्तः सन्ति । एतस्मिन् दुःखदे काले केचन भारतविरोधिनः भारते स्थित्वा भारतस्य संसाधनानि आस्वाद्य एतस्य जघन्यकार्यस्य कृते प्रसन्नतामपि प्रदर्शितवन्तः । एतेषां मत्तप्रलापं मातृभक्तैः भारतस्य नागरिकैः सम्यक् तर्जितम् ।

  • स्वस्वार्थकारणात् पक्षपरिवर्तनशीलः नवजोतसिन्धुः पूर्वमपि पाकिस्थानस्य प्रति तत्र गत्वा स्वसंवेदनां प्रदर्शयन् पाकिस्थानस्थैः सह आलिङ्गनमपि कृतवान् आसीत् । एतस्मिन् कठोरकाले तेन तस्य पुनरावृतिः कृता । स्वमत्तप्रलापेन तेनोक्तं यत् एतस्यां घटनायां पाकिस्थानस्य न कोऽपि दोषः इति । तस्य एतादृशेन वाणिविलासेन भारतीयानाम् अवशिष्टः आदरः अपि समाप्तः । तस्य ’सोनी’ इति वाहिन्यां कपिलशर्मणः कार्यक्रमस्य प्रतिबन्धार्थं आ भारतात् आक्रोशः प्रकटितः । दर्शकसङ्ख्याह्रासकारणत्वात् भयभीताः सोनी वाहिन्या अविलम्बं नवजोतः कपिलस्य कार्यक्रात् निलम्बितः । तस्य स्थाने अर्चनापूरणसिंग स्थापिता । जनशक्तेः क्रोधस्य परीक्षा न करणीया ।
  • पाकिस्थानस्थानां गायकानां गीतानां प्रकाशनं अवरुद्धम् ।
  • टूर-ओपरेटर-एशोशियनद्वारा कश्मीरप्रवासः निरस्तः कृतः यत्र कोटिशः रूप्यकाणां वाणिज्यं भवति ।
  • एन.डी.टी.वी. इत्यस्य पत्रकारा निधिशेठी अपि एतस्य निघृणकार्यस्य प्रशंसां कुर्वती भारतविरोधिनिवेदनं कृतवती आसीत् । तस्याः अपि जनाक्रोशकारणात् निलम्बनं जातम्।
  • अलीगढ-मुस्लिम-विश्वविद्यालये पठन् कश्मीरनिवासी छात्रः बसीम-हिलालः अपि पुलवामा-आक्रमणस्य प्रशंसां कृतवान् । जनानां उग्रताम् अवगच्छन्तः विश्वविद्यालयस्य अधिकारिणः तत्क्षणं तं निष्कासितवन्तः।
  • इजरायेल-रशिया-अमेरिकाप्रभृतिभिः नैकैः देशैः स्पष्टरूपेण  पाकिस्थानस्य दुष्कृत्यमिदं निन्दितम्।
  • भारतसर्वकारेण आक्रमणकारिणः मसूद-अजहरस्य अन्ताराष्ट्रिय-आतङ्कवादी रूपेण उद्घोषयितुं प्रार्थितं परन्तु चाइना देशेन एतस्य विरोधः कृतः । एतेन समग्रे विश्वे चाइनादेशस्य आगङ्कवादसमर्थितदेशरूपेण प्रकटीकरणं जातम्।
  • विपक्षिभिः अपि स्वभावविरुद्धं एतस्यां दुःखदवेलायां भारतसर्वकारस्य समर्थनं कृत्वा देशं प्रति स्वनिष्ठा प्रकटिता ।
  • कैश्चित् भारतविरोधिभिः निन्दनीयं कृत्यं पशंसितम् तस्य सर्वतः विरोधः उत्पन्नः ।
  • समग्रे देशे शनिवासरे स्वयमेव भारतपिधानं जातम् । प्रतिस्थानं श्रद्धाञ्जलिसभाः आयोजिताः । हूतात्मानां अन्तिमयात्रायां स्थानिकानां परिवारजनानां आर्तनादेन कठोरहृदयम् अपि द्रवीकृभूतम् । विविधेषु स्थानेषु रात्रौ दीपयात्राः अपि आयोजिताः ।
  • इदानीं युद्धमेव कल्याणम् इति प्रायशः बहूनां मतम् ।

अद्यतनवार्ता

भारतम्

विश्वम्