Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

राजसभायामद्य मुस्लिम-महिला-विवाहाधिकार-संरक्षण-विधेयकं प्रस्तुतं पारितञ्च । विधेयकस्य समर्थने ९९ मतानि विरोधे च ८४ मतानि प्राप्तानि आसन् । मतदानपूर्वं एतस्मिन् विषये चर्चायाः पश्चात् चयनसमितिं प्रति विषयं प्रेषयितुं मतदानं जातमासीत् । एतस्मिन् मतदाने १०० मतानि समर्थने ८४ मतानि विरोधार्थं च प्राप्तानि आसन् । विधेयकेऽस्मिन् चर्चायां भागं भजता विधिमन्त्रिणा रविशङ्करप्रसादेनोक्तं यत् विधेयकमिदं स्त्रीपुरुषयोः समानतायाः गरिम्णः च विषयोऽस्ति ।

भाजपादलेन विधेयकसफलतायै  सर्वसांसदान् अद्य सभायाम् उपस्थातुं सूचना दत्ता आसीत्। विधेयकस्यास्य कोंग्रेस-डीएमके-एनसीपी-टीडीपी-जेडीयूदलैः विरोधः कृतः आसीत् ।

अद्यतनवार्ता

भारतम्

विश्वम्