Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

इसरो इति भारतीय-अन्तरिक्ष-अनुसन्धान-सङ्घट्नं लैंडर-विक्रम इत्याख्यस्य चन्द्रयानद्वितीयस्य अव्यवहित-अवतरणाय सिद्धमस्ति । आशु एव इदं ऐतिहासिकक्षणं विश्वं द्रक्ष्यति । अस्य गौरवास्पदक्षणस्य प्रत्यक्षीकरणाय प्रधानमन्त्री नरेन्द्रमोदी अपि बैंगलूरूनगरं प्राप्तः अस्ति । प्रधानमन्त्रिणा सह तत्रत्यविद्यालयानां सप्ततिः छात्राः अपि साक्षिणः भविष्यन्ति । दृश्यमिदं नयनगोचरीकर्तुं सफलतायै प्रार्थनारताः नैके देशवासिनः उद्घाटितनेत्राः सन्ति । प्रधानमन्त्रिणा उक्तं यत् चन्द्रयानं – २ इत्यभियानं भारतस्य सर्वोत्तमां प्रतिभां दृढभावनां च प्रदर्शयति । तेन देशवासिनः अवतरणदृश्यं दृग्गोचरीकर्तुं निचेदितम् ।

अद्यतनवार्ता

भारतम्

विश्वम्