संविधानस्य प्रस्तावनायां समाजवाद: धर्मनिरपेक्षता च इति शब्दद्वयं दूरीकर्तुं भाजपानेतृभिः आरएसएस-सङ्घं प्रति आह्वानं कृतमस्ति। एतस्मिन् समये एव असमस्य मुख्यमन्त्री हिमन्तबिस्वाशर्मा अपि एकस्मिन् कार्यक्रमे आपत्कालसम्बद्धं काङ्ग्रेसं लक्ष्यीकृत्य अवदत् यत्, 'आपत्काले संविधाने यत् ’धर्मनिरपेक्ष’, ’समाजवाद’ चेति शब्दद्वयं योजितमासीत् तत् अपसारणीयम्।' भाजपा-मुख्यालये 'द इमरजन्सी डायरीज' इति पुस्तकं विमोचनकाले एतत् आह्वानं कृतवान्। सः अवदत्- 'एतानि वचनानि कदापि मूलसंविधानस्य भागाः न आसन्, अतः एतानि अपसारणीयानि।' यतो हि धर्मनिरपेक्षता सर्वेषां धर्माणां समानतायाः भारतीयविचारस्य विरोधी अस्ति तथा च समाजवादः कदापि भारतस्य मूल आर्थिकदृष्टेः भागः नासीत् इति।