Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

समग्रदिनस्य नतोन्नतप्रवाहस्य अन्ते रात्रौ नववादने अटारी-वाघा समपारे पाकिस्तानस्य अधिकारिभिः सह अभिनन्दनः सम्प्राप्तः । आवश्यकप्रक्रियां समाप्य अभिनन्दनः भारतस्य उच्चाधिकारेभ्यः समर्पितः । यथास्वभावम् अविश्वसनीयः पाकिस्तानदेशः नियतकालं अवगण्य आदिनं येन केन प्रकारेण प्रतीक्षारतान् देशभक्तान् भारतीयान् अपीडयत् । नैकवारं भारतीयसैन्याधिकारिभिः स्मारितं तथापि स्वदुष्टतायाः परिचयं कारयत् पाकिस्तानं स्वेच्छया एव व्यवहारं कृतवान्। स्वदेशस्य वीरवायुपुत्रस्य दर्शनं कर्तुं प्रभाततः एव दूरदेशात् आगतानां जनानाम् उत्साहः सायं काले अपि तथैव आसीत्। त्रिवर्णीयं ध्वजं स्वीकृत्य आनन्दं नृत्यं च कुर्वन्तः उत्साहिनः जनाः नैकवारं आगमनद्वारं पश्यन्तः सुखदु:खमिश्रितभावपूर्णाः दृश्यन्ते स्म। अन्ततो गत्वा विश्वं मोहयितुम् अभिनन्दनस्य दूषित-दृश्यश्राव्य-चित्रं प्रसार्य समर्पणविधिः सम्पन्नः ।

अद्यतनवार्ता

भारतम्

विश्वम्