Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

प्रधानमन्त्री नरेन्द्रमोदी राजस्थानस्य बीकानेरनगरे विविधानां विकासयोजनानां उद्घाटनावसरे पुनः आतङ्कवादस्य उपरि आक्रमणं कृतवान्। तेनोक्तं यत् आतङ्कवादिनः धर्मं पृष्ट्वा अस्माकं मातृभगिनीनां सीमन्तत: सिन्दूरं अपसारितवन्त:। परन्तु यदा सिन्दूरं विस्फोटक: भवति तदा तस्य परिणामः कथं भवति इति जगता दृष्टः। पहलगाम-आतङ्कवादि-आक्रमणानन्तरं सेनायै स्वतन्त्रता दत्ता, तिसृभि: सेनाभिः एतादृशी रणनीतिः कल्पिता येन पाकिस्तानं शीघ्रमेव जानुनो: पतितम्।  पाकिस्तानेन सह व्यापारवार्ता नैव भविष्यति। अधुना वयं केवलं पाकिस्तान-अधिकृतस्य काश्मीरस्य (PoK) विषये एव वदिष्याम:। मम नाडीषु उष्णं रक्तं न प्रवहति, अपितु सिन्दूरं प्रवहति। इति

अद्यतनवार्ता

भारतम्

विश्वम्