Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

संस्कृतभाषां जनभाषां कर्तुं  प्रयत्नरतस्य संस्कृतभारती इति सङ्घटनस्य प्रथमस्य त्रिदिवसीय-विश्वसम्मेलनस्य उद्घाटनं अद्य राजधान्यां देहल्यामभवत् । उद्घाटानसमारोहस्य मुख्यातिथिः केन्द्रीयचिकित्सा-स्वास्थ्य-विज्ञान-प्राद्योगिकी-विभागस्य मन्त्री डॉ. हर्षवर्धनः आसीत् । तेनोक्तं यत् संस्कृतभारती सञ्जीवन्याः सञ्चारं करोति । संस्कृतभारत्याः संस्कृतसम्भाषण-आन्दोलनद्वारा २१ देशानां नैके जनाः अद्यत्वे संस्कृतं पठन्तः सन्ति । प्राथमिककक्षातः उच्चशिक्षापर्यन्तं केवलं भारते एव एक कोटिः छात्राः संस्कृतं पठन्तः सन्ति ।

कार्यक्रमेऽस्मिन् संस्थायाः अखिलभारतीयमहामन्त्रिणा श्रीशदेवपुजारीमहोदयेन त्रयाणां वर्षाणां कार्यवृत्तं प्रस्तुतम् । तेन कथितं यत् १७ देशेषु संस्कृतभारत्याः कार्यं प्रचलति । २१ देशानां ७६ प्रतिनिधयः अस्मिन् सम्मेलने भागं वहन्तः सन्ति । भारतस्य ५४२ जनपदानां ३८८३ स्थानेभ्यः चतुर्सहस्राधिकाः दायित्ववन्तः सम्भाषणशीलाः समर्पिताः कार्यकर्तारः अत्र आगताः सन्ति । एतेन सम्मेलनेन निश्चितरूपेण संस्कृतयशः विश्वे प्रसरिष्यति ।
संस्कृतप्रीतिकारणादपि प्रख्यातेन लोकसभासांसदेन प्रतापचन्द्रषडंगीवर्येण संस्कृतभाषया स्वविचारान् प्रकटयता भाषायाः महत्त्वं स्पष्टीकृतम्। तेनोक्तं यत् ये संस्कृतं न जानन्ति ते भारतं न जानन्ति । सर्वाधिक-उत्तमाभाषा संस्कृतमस्ति ।

कार्यक्रमस्य अध्यक्षेण प्रा. भक्तवत्सलशर्मणा उक्तं यत् संस्कृतं केवलं भाषा न, अपि तु जीवनपद्धतिः अस्ति । एकविंशतितमशताब्दी संस्कृतशताब्दीरूपेण प्रस्थापिता भवेत् तदर्थं प्रयत्नः कर्तव्यः सर्वैः ।

कार्यक्रमेऽस्मिन् कार्यकर्तृभिः पूर्णपूरिते सभागारे विभिन्नविश्वविद्यालयानां कुलपतयः आचार्याः अध्यापकाः गणमान्याः नागरिकाः च उपस्थिताः आसन् ।

अद्यतनवार्ता

भारतम्

विश्वम्