Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

उत्तरप्रदेशस्य कन्नौजजनपदे आश्चर्यकारिका घटना जाता। कन्‍नौजजनपदस्य सिलुआपुरग्रामे एका अजा स्वस्वामिन: कोशे स्थापितानि ६६,००० रूप्यकाणि चर्वितवती। अजाया: स्वामी सर्वेशकुमार: स्वोरुकस्य कोशे रूप्यकाणि स्थापयित्वा स्‍नातुं गत: आसीत् तदैव अजा धनं चर्वितवती। सर्वेशकुमार: एतेन धनेन इष्टकां क्रेतुम् इच्छति स्म येन स: स्वगृहं रचयेत्। घटनाम् एतां ज्ञात्वा ग्रामजना: अजां द्रष्टुं सर्वेशस्य गृहमागता: अपि च अजया सह चित्राणि अपि स्वीकृतानि।

अद्यतनवार्ता

भारतम्

विश्वम्