Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

मोदी मह्यं रोचते मनमोहनसिंहस्याहं प्रशंसकः - बराक-ओबमा 
अमेरिकायाः पूर्वराष्ट्रपतिः बराक-ओबामा  भारतस्य प्रधानमन्त्रिणः नरेन्द्रमोदिनः पूर्वप्रधानमन्त्रिणः मनमोहनसिंहस्य च प्रशंसामकरोत्। देहल्यां आयोजिते एकस्मिन् कार्यक्रमे तेन कथितम् यत् मोदी मह्यं रोचते अपि च मनमोहनस्य अहं प्रशंसकः अस्मि।  नरेन्द्रमोदी प्रशासनस्य आधुनिकीकरणं  कुर्वन् अस्ति। मनमोहनसिंहेन भारतीय-अर्थव्यवस्थायां समुचितं परिवर्तनं कृतमासीत्। अष्टोत्तराधिकद्विसहस्रतमे वर्षे तेन अर्थव्यवस्थायाः वैश्विकसमस्यानां समाधाने महान् सहयोगः दत्तः आसीत्। इदानींतनस्य प्रधानमन्त्रिणः नरेन्द्रमोदिनः भारतस्य एकं विशिष्टं चित्रं अस्ति। देशस्य विकासाय अनेकेषु क्षेत्रेषु सः आमूलं परिवर्तनं कुर्वन् अस्ति।

अद्यतनवार्ता

भारतम्

विश्वम्