Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

प्रतिवर्षमिव वर्षेऽस्मिन्नपि गुजरातसर्वकारस्य संस्कृतसाहित्य-अकादमीद्वारा गुजरातविश्वविद्यालयस्य संस्कृतभारत्याः च सहयोगेन ’आषाढस्य प्रथमदिवसे’ इति संस्कृतोत्सवस्य आयोजनं गुजरातविश्वविद्यालयस्य सभागारे सम्पन्नम्। अस्मिन् कार्यक्रमे महामहिमराज्यपालः श्री-ओ.पी.कोहली, शिक्षणमन्त्री भूपेन्द्रसिंहचुडासमा, क्रीडा एवं युवसांस्कृतिकमन्त्री श्रीईश्वरसिंहपटेलः, संस्कृतभारत्याः प्रान्तसङ्घटनमन्त्री श्रीहिमाञ्जयपालिवालः, अकादम्याः महामात्रः श्री-अजयसिंहचौहाणः गुजरातविश्वविद्यालयस्य उपकुलपतिः श्रीहिमांशुपण्ड्या च उपस्थाय कार्यक्रमशोभावृद्धिं कृतवन्तः। उत्सवेऽस्मिन् वेदशास्त्रपारङ्गतपण्डितसम्मानस्य साहित्यगौरवसम्मानस्य संस्कृतयुवगौरवसम्मानस्य संस्कृतकुटुम्बसम्मानस्य अर्पणकार्यक्रमोऽपि समायोजितः आसीत्। अस्मिन् कार्यक्रमे शास्त्रपारङ्गताः विद्वांसः डो.गौतमपटेलः, डो. राजेन्द्रप्रसादशुक्लः, श्रीहरकांतमहेता, घनश्यामत्रिवेदी, डो.कृणालजोषी, डो. गिरीशचन्द्रठाकरः, डो. कृष्णप्रसादनिरौला, डो. वाचस्पतिमिश्रः, डो.नर्मदाशङ्करराजगोरः सम्मानं प्राप्तवन्तः । एतेन सह माधवीठाकरः, अमितगोरः, जितेन्द्रब्रह्मभट्टः च सततं संस्कृतसेवायै सम्मानं प्राप्तवन्तः।

श्रीहिमाञ्जयपालिवालेन स्वस्य मुख्योद्बोधने संस्कृतजगतः वास्तविकपरिस्थितेः निरूपणं कृत्वा तस्य परिहारस्य उपायाः दर्शिताः । तेन प्रतिपादितं यत् भारतीयभाषाणां विकासाय रक्षणाय च संस्कृतभाषा अत्यावश्यकी अस्ति। संस्कृतरसिकैः पूरिते सम्पूर्णे सभागारे  तेन सर्वकाराय संस्कृत-शिक्षण-मण्डलस्य निर्माणाय अपि च गुजराते  संस्कृतमाध्यमेन बी.एड. इत्यस्य आरम्भाय निवेदनमपि कृतम्। तस्य समर्थनं सर्वेऽपि सभास्थाः पण्डिताः संस्कृतप्रेमिणः नगरस्थाः च एकस्वरेण कृतवन्तः।

गुजरातविश्वविद्यालयस्य उपकुलपतिना डो.हिमांशुपण्ड्यामहोदयेन उक्तं यत् इदानीं विश्वविद्यालयेऽस्मिन् संस्कृतसम्भाषणकेन्द्रस्य आरम्भः कृत: अस्ति। अग्रे अन्येऽपि बी.एड. इतीव अन्ये अपि अभ्यासक्रमाणाम् आयोजनं अत्र भविष्यति।

संस्कृतेन सम्भाषमाणेन शिक्षणमन्त्रिणा भूपेन्द्रसिंहचुडासमावर्येण सर्वकारपक्षतः संस्कृतशिक्षणमण्डलस्य रचनायै उद्घोषणा कृता ।

महामहिमता राज्यपालेन भारते भाषाणां महत्त्वस्य विषये विद्वत्तापूर्णं उद्बोधनं दत्तम्। तेन उक्तं यत् भारतीयभाषासु अस्माभिः मूल-संस्कृतशब्दानां प्रयोगं करिष्यामः तर्हि भारतीयभाषाणां रक्षणं संवर्धनं स्वयमेव भविष्यति।

अद्यतनवार्ता

भारतम्

विश्वम्