Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

रविवासरे प्रातःकाले पञ्जाबस्य लुधियानानगरे वायो: स्रवणेन ११ जनाः मृताः। मृतेषु ५ महिलाः ४ पुरुषाः द्वौ बालकौ अपि सन्ति। ग्यारसपुरे स्थिते भवने प्रातः ७:१५ वादने दुर्घटना अभवत् । लुधियाना एसडीएम स्वाति इत्यनेन उक्तं यत् वायुस्रवणस्य अनन्तरं ११ जनाः मूर्छिताः अभवन्। अग्निशामकदलस्य, आरक्षकाणां,  एनडीआरएफ इत्यस्य च गणा: स्थले उपस्थिताः सन्ति। सम्पूर्णं क्षेत्रं प्रवेशनिषेधत्वेन उद्घोषितम्।

प्राप्तविवरणानुसारं ज्ञायते यत् स्थानेऽस्मिन् एकं दुग्धकेन्द्रम् अस्ति। प्रातःकाले ये केऽपि दुग्धं क्रेतुं गतवन्तः ते मूर्च्छिता: अभवन्। तदनन्तरं घटना ज्ञाता अभवत् । यत्र वायुः स्रुतः तस्मात् भवनात् ३०० मीटर् परिधौ जनाः विगतचेतनाः जाता:। मृतेषु त्रयाणां मृतशरीराणि नीलवर्णानि जातानि। कः वायुः स्रुतः अभवत्, किं च कारणं इति अधुना यावत् न ज्ञातम्।

अद्यतनवार्ता

भारतम्

विश्वम्