Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

रिजर्वबैङ्कः २००० रूप्यकाणां मुद्रां प्रचलनात् बहिः निष्कासयिष्यति, परन्तु विद्यमानाः मुद्रा: अमान्याः न भविष्यन्ति । २ सहस्रस्य मुद्रा २०१६ तमस्य वर्षस्य नवम्बरमासे प्रचलने आगता आसीत् । तदानीन्तनः प्रधानमन्त्री नरेन्द्रमोदी ५००, १००० मुद्राणां स्थगनं कृतवान् आसीत् । तस्य स्थाने नूतनरूपेण ५००, २००० च रूप्यकाणां नूतनाः मुद्रा: आगता: आसन्। आरबीआइ द्वारा २०१८-१९ वर्षात् २००० मुद्राणां मुद्रणं स्थगितमासीत्।

आरबीआई द्वारा मे २३ तः ३० सेप्टेम्बर् पर्यन्तं २००० मुद्राणाम् आदानप्रदानं कर्तुं वित्तकोषेभ्यः निर्देशः दत्तः। एकस्मिन् समये केवलं विंशतिसहस्ररूप्यकाणां अधिकतममूल्यानां मुद्राणाम् आदानप्रदानं भविष्यति। 

1. आरबीआइ द्वारा किम् उक्तम् ?

रिजर्वबैङ्कः २००० रूप्यकाणां मुद्रां प्रचलनात् निष्कासयिष्यति, परन्तु विद्यमानाः मुद्रा: अमान्याः न भविष्यन्ति । 

2. कदा आरभ्य निर्णयः कार्यान्वितः भवति ?

आरबीआई परिपत्रे लिखितं यत् २००० इत्यस्य मुद्रा: प्रसारणात् बहिः अस्ति। अस्य कृते तिथिः समयः वा न दत्तः । अर्थात् अयं निर्णयः सद्यः प्रभावेण प्रवर्तमानः अस्ति ।

3. मुद्रापत्रं परिवर्तयितुं किं कर्तव्यं भविष्यति, तस्य सम्पूर्णा प्रक्रिया का भविष्यति?

मुद्रापरिवर्तनं वित्तकोषे शक्यते। अस्य कृते ३० सेप्टेम्बर् २०२३ पर्यन्तं समयः दत्तः अस्ति । एतस्य विषये वित्तकोषेभ्यः अपि सूचितं यत् मुद्रापरिवर्तने कोऽपि समस्या नास्ति।

4. यदि 30 सेप्टेम्बर् यावत् मुद्रापरिवर्तनं न भवति तर्हि किं भविष्यति?

₹2000 मुद्रा: व्यवहारे निरन्तरं उपयोक्तुं शक्यते, भुक्तिरूपेण अपि प्राप्तुं शक्यते। परन्तु आरबीआई द्वारा ३० सितम्बर् २०२३ पूर्वं परिवर्तयितुं सूचितमस्ति।

5. यस्मिन् कस्मिन् अपि वित्तकोषे लेखां विना अपि आदानप्रदानं कर्तुं शक्यते वा ?

आम्‌। यः वित्तकोषस्य ग्राहकः नास्ति सः अपि एकस्मिन् समये ₹20,000/- सीमापर्यन्तं कस्मिन् अपि वित्तकोषशाखायां ₹2000 मुद्राणाम् आदानप्रदानमपि कर्तुं शक्नोति।

6. विपण्यां ₹2000 मुद्रायाः क्रयणे किं प्रभावः दृश्यते ?

सर्वकारेण तत् प्रचलने एव स्थापितं चेदपि व्यापारिणः व्यवहारं कर्तुं संकोचम् कर्तुं शक्नुवन्ति । एतादृशे सति मुद्रापरिवर्तनं श्रेयः स्यात् ।

7. आरबीआइ इत्यनेन आदानप्रदानार्थं ३० सितम्बरपर्यन्तं समयः दत्तः। तदनन्तरं किं भविष्यति ?

तिथिः अपि विस्तारयितुं शक्यते, परन्तु अन्तिमतिथिं न प्रतीक्षन्तु । यदि सर्वकारः तत् अमान्यं करोति तर्हि भवता सह स्थापितानां ₹२००० मुद्राणां मूल्यं न भविष्यति।

8. केन एषः निर्णयः कृतः किमर्थं च ?

रिजर्वबैङ्कद्वारा स्वच्छमुद्रानीत्याः अन्तर्गतं एषः निर्णयः कृतः अस्ति । स्वच्छमुद्रानीतौ जनाः मुद्रापत्रेषु किमपि न लिखन्तु इति अनुरोधः कृतः यतः एतत् कृत्वा तासां रूपं दूषितं भवति, तेषां आयुः अपि न्यूनीकरोति व्यवहारेषु जनैः उत्तमगुणवत्तायुक्ताः धनमुद्राः प्राप्तव्याः इति एतत् लक्ष्यं प्राप्तुं इयं परियोजना कार्यान्विता अस्ति।

अद्यतनवार्ता

भारतम्

विश्वम्