Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

ज्ञानवापी इत्यस्य भारतीयपुरातत्वविभागस्य सर्वेक्षणं शनिवासरे प्रातः ९ वादनतः सायं ५ वादनपर्यन्तं प्राचलत्। पूर्वं प्रारम्भिक ४ घण्टायाः सर्वेक्षणे चतुर्भिः दलैः ज्ञानवापी हॉल, अधोगृहं, वेस्ट् वाल, आउटर वाल, सेण्ट्रल् इत्यादीनां मानचित्रं निर्मितम् । गुरुवासरात् आरभ्य सर्वेक्षणस्य कार्यवाही प्रचलति। एएसआइ-संस्थायाः ६१ सदस्यानां दलं सर्वेक्षणं कुर्वन् अस्ति । 

हिन्दुपक्षस्य अधिवक्ता अनुपमद्विवेदी अवदत् यत् ज्ञानवापी इत्यस्य 3D इमेजिंग् फ्रेमिंग्-स्कैनिंग् इत्यनेन केचन मूर्तिखण्डाः प्राप्ताः। अपि च प्राचीनमन्दिरस्य भग्नावशेषाः सन्ति। तस्मिन् एव काले एआइएमआईएम-प्रमुखः असदुद्दीन ओवैसी अवदत् यत् अस्माकं २३ डिसेम्बर् अथवा ६ डिसेम्बर् इव घटनानां भयमस्ति।

अद्यतनवार्ता

भारतम्

विश्वम्