भारतं जापानदेशं अतिक्रम्य विश्वस्य चतुर्थ बृहत्तम: अर्थव्यवस्थायुक्तदेश: अभवत्। निति-आयोगस्य मुख्यकार्यकारी अधिकारी (सीईओ) बी.वी.आर.सुब्रमण्यम इत्यनेन शनिवासरे एषा सूचना दत्ता। सः नीतिआयोगशासकपरिषदः दशमसभायाः अनन्तरं मीडियासञ्चारमाध्यमानां पुरत: अवदत् यत् भारते आर्थिकवातावरणं अनुकूलम् अस्ति। सः अवदत् यत् अद्य भारतं ४००० अरब डॉलरपरिमितस्य अर्थव्यवस्था अस्ति। अन्ताराष्ट्रीयमुद्राकोषम् (IMF) उद्धृत्य सुब्रह्मण्यमः अवदत् यत् अद्य भारतस्य अर्थव्यवस्था जापानापेक्षया बृहत्तरा अस्ति। अर्थव्यवस्थायाः दृष्ट्या भारतात् केवलं अमेरिका, चीन, जर्मनी च अग्रे सन्ति।