Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

भारतसर्वकारेण उद्घोषितं यत् बालाकोटप्रदेशे वाय्वाक्रमणं कृतवन्तः वायुसेनायाः सैनिकाः वीरतापदकैः सम्मानिताः भविष्यन्ति । स्वतन्त्रतादिवसस्य शुभावसरे विंगकमान्डर अमितरंजनः स्क्वोर्डनलीडर राहुलबसोया पंकजभुजडे बीकेएनरेड्डी शशांकसिंहः च सम्मानमिदं प्राप्स्यन्ति । एते सर्वेऽपि युद्धवायुयानस्य चालकाः आसन् ये बालकोटप्रदेशे जैश-ए-मोहम्मद इत्यस्य आतङ्किशिबिरेषु अग्न्यस्त्राणि अवर्षयन् । अस्माकं सेनायाः आक्रमणस्य प्रत्युत्तररूपेण पाकिस्तानसेनया भारतप्रदेशेषु आक्रमणं कर्तुं प्रयत्नः कृतः । तस्य प्रत्याक्रमणे विंगकमांडर अभिनन्दनवर्तमानेन पाकिस्तानस्य एफ-१६ युद्धविमानं नाशितम् परन्तु पाकिस्तानसेनया गृहीतः । भारतस्य अन्ताराष्ट्रिय-कूटनीतिकारणात् सः मुक्तः जात । पाकिस्ताने अपि अभिनन्दनः उत्तमसैनिकस्य लाक्षणिकताम् अदर्शयत् । अभिनन्दनस्य वीरतायाः कारणात् सः स्वतन्त्रतादिवसे वीरचक्रेण सम्मानितः भविष्यति ।

अद्यतनवार्ता

भारतम्

विश्वम्