Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

गुजरातराज्ये दिल्लीसदृशी घटना पुनः अभवत्। अहमदाबादस्य २३ विद्यालयै: ईमेइलद्वारा विस्फोटप्रहारस्य भर्त्सनं प्राप्तम्। आरक्षकदलै: विशेषज्ञै: च तत्स्थानं प्राप्य अन्वेषणं कृतं परन्तु किमपि न प्राप्तम्। अहमदाबाद-दिल्ली-नगरयोः दृश्यमानानि ईमेल-पत्राणि रूसीडोमेनतः प्रेषितानि सन्ति। केवलं ईमेल-ID-पत्राणि भिन्नानि इति ज्ञायन्ते । निर्वाचनात् पूर्वदिने एव अनेन भर्त्सनेन सर्वेऽपि विभागागा: कार्यरता: सन्ति। अस्मिन् विषये अपराधशाखायाः संयुक्तपुलिस-आयुक्तः सरदसिंघलः अवदत् यत् “अद्य प्रातः ६ वादने विद्यालयेषु mail.ru इत्यस्य माध्यमेन सन्देश: प्राप्त:। तदनन्तरं श्वापददलस्य, बम्बदलस्य च माध्यमेन विद्यालयानां परिक्षणं कृतमस्ति। अस्मिन् परीक्षणे किमपि न प्राप्तम्। एतेषु विद्यालयेषु केचन विद्यालया: मतदानकेन्द्राणि अपि सन्ति।” एतत् सर्वविदितमस्ति यत् निर्वाचनार्थं प्रधानमन्त्री नरेन्द्रमोदी, गृहराज्यमन्त्री अमीतशाह: च अहमदाबादनगरे भविष्यत:। 

अद्यतनवार्ता

भारतम्

विश्वम्