उत्तराखण्डस्य केदारनाथनगरे रुग्णवायुयानस्य दुर्घटना अभवत्। ऋषिकेश-एम्सतः रुग्णमानेतुम् इदम् उदग्रयानं केदारनाथं प्राप्तम्। अस्मिन् समये केदारनाथ-हेलिपड्-स्थले अवतरणपूर्वमेव दुर्घटना जाता। दुर्घटनायां कस्यापि क्षतिः न अभवत्। विमानचालकः सुरक्षितरूपेण बहिरागत: आसीत्।