वर्षाकाल: देशस्य १७ राज्येषु आरब्ध: अस्ति। बुधवासरे १२ दिवसपूर्वं छत्तीसगढे, १३ दिवसपूर्वं च ओडिशानगरे प्रावृट् प्राप्ता। उभयोः राज्ययोः केषुचित् मण्डलेषु प्रचण्डवृष्टिः अभवत्।
अद्य महाराष्ट्रस्य मुम्बई, नवी मुम्बई, ठाणे, पालघर, रायगड इत्यत्र प्रचण्डवृष्टिः अभवत्। बदलापुर, उल्हासनगर, कल्याण, डोम्बिवली, ठाणे च विभिन्नेषु क्षेत्रेषु जलप्रलयः अभवत् ।
राजस्थाने प्रकृते: रूपत्रयं दृश्यते। बुण्डीमण्डले तीव्रतापः अस्ति। उदयपुर-चित्तौड़गढ़-भिलवाड़ाक्षेत्रेषु वर्षा अपि चजैसलमेरे प्रातःकालादेव वालुकाचक्रवात: वर्तते।
मध्यप्रदेशस्य १५ तः अधिकेषु जनपदेषु मंगलवासरे वर्षा अभवत्। अद्य अपि भोपाल, इन्दौर-उज्जैन सहितेषु 40 मण्डलेषु प्रचण्डवज्रपातेन सह वर्षायाः सचेतना अस्ति।