Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

बहरीन्-देशे भारतस्य प्रतिनिधित्वं कुर्वतः सर्वदलीयप्रतिनिधिमण्डलस्य भागः अखिलभारतीयमजलिस-ए-इत्तेहादुल् मुस्लिमीन (एआईएमआईएम)-सांसदः असदुद्दीन ओवैसी पाकिस्ताने प्रबलतया आक्रमणं कृतवान्। सः समीपस्थं देशं 'विफलराष्ट्रम्' इति उक्त्वा तस्य नीतीनां दृढतया आलोचनां कृतवान्। तेनोक्तं यत् भारतं विगतवर्षेभ्यः कीदृशानां आतङ्कवादिनां दुष्कृत्यानाम् अनुभवं कुर्वन् अस्ति इति विश्वाय दर्शयितुम् अस्माकं सर्वकारेण वयम् अत्र प्रेषिता:। आक्रमणे दुर्भाग्येन अस्माकं बहवः निर्दोषाः जनाः मारिताः। अस्याः समस्यायाः मूलं पाकिस्तानम् अस्ति। यावत् पाकिस्तानम् आतङ्कवादीनां संस्थानां समर्थनं, साहाय्यं, प्रायोजनं च न त्यजति तावत् एतत् तथैव स्थास्यति।

अद्यतनवार्ता

भारतम्

विश्वम्