यदि केन्द्रसर्वकारः राज्यसर्वकारः च “टीम इण्डिया” इव मिलित्वा कार्यं करोति तर्हि किमपि लक्ष्यम् असम्भवं नास्ति। वैश्विकनिवेशकाः भारते अतीव रुचिं लभन्ते। राज्यैः एतेषां अवसराणां लाभं गृहीत्वा नीतिबाधां दूरीकृत्य ते आकर्षणीया: इति प्रधानमन्त्री नरेन्द्रमोदी नीति-आयोगस्य दशमशासिपरिषदः सभायाः अध्यक्षतां कुर्वन् अवदत्। पश्चिमबङ्गस्य मुख्यमन्त्री ममता बनर्जी, कर्नाटकस्य मुख्यमन्त्री सिद्धारमैया च अस्मिन् सत्रे उपस्थितौ नास्ताम्। निति-आयोगस्य मुख्यकार्यकारी बी.वी.आर.सुब्रमण्यमन् उक्तवान् यत् देशस्य कुल ३६ राज्येषु केन्द्रशासितक्षेत्रेषु च ३१ राज्यानि अस्मिन् सत्रे उपस्थिताः आसन्। येषु राज्येषु अनुपस्थिताः आसन् तेषु कर्नाटक-केरल-पश्चिमबङ्ग-बिहार-पुद्दुचेरीराज्यानि सन्ति ।