Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

भारतस्य सर्वदलीयप्रतिनिधिमण्डलं पाकिस्तानस्य आतङ्कवादसमर्थनं प्रकाशयितुं विश्वस्य अनेकेषु देशेषु भ्रमणं कुर्वत् अस्ति। भाजपा-सांसदानां अतिरिक्तं अनेके विपक्षनेतारः विशेषतः काङ्ग्रेस-सांसदः शशि-थरूरः अपि अस्मिन् समाविष्ट: अस्ति। सः विदेशेषु भारतसर्वकारस्य दृढतया समर्थनं कुर्वन् अस्ति। पाकिस्तानस्य दुष्कृत्यान् निर्भीकतया विश्वसमक्षं प्रस्तुतं करोति। परन्तु भारतस्य पक्षं विश्वसमक्षं स्थापयितुं गतस्य शशिथरूरस्य अवहेलना तस्य पक्षस्य जना: एव कुर्वन्ति। काङ्ग्रेसनेता उदितराजः बुधवासरे (२८ मे २०२५) x इत्यत्र एकं सन्देशं पुन: प्रेषयित्वा स: सन्देश: शशिथरूराय लक्ष्यीकृत:। तत्र स: लिखितवान् यत् अहं प्रधानमन्त्रिमोदिनं भवन्तं भारतीयजनतादलस्य श्रेष्ठप्रवक्ता इति घोषयितुं बोधयितुं शक्नुयाम् चेत् उत्तमम्। भारतम् आगमनात् पूर्वं प्रधानमन्त्री भवन्तं विदेशमन्त्री इति अपि घोषयितुं शक्नुयात् चेत् वरम् इति।

अद्यतनवार्ता

भारतम्

विश्वम्