Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

आतङ्कवादविरुद्धं भारतस्य नीतिं विश्वे स्पष्टीकर्तुं अमेरिकादेशम् आगतं भारतीयप्रतिनिधिमण्डलं ९/११ आक्रमणे ये प्राणान् त्यक्तवन्तः तेषां स्मारकं गत्वा श्रद्धाञ्जलिम् अयच्छत्। अस्मिन् काले प्रतिनिधिमण्डलस्य नेतृत्वं कुर्वन् काङ्ग्रेस-सांसदः शशि-थरूरः अवदत् यत् यथा अमेरिकादेशेन आतङ्क-आक्रमणस्य दु:खं सोढं, तथैव भारतेनापि बहुवारं तत् दु:खमनुभूतमस्ति। मार्मिकस्मारके‍ऽस्मिन् ये व्रणा: अत्र अनुभूयन्ते तादृशान् व्रणान् वयं अनुभूतवन्त:। वयम् अत्र एकतायाः भावेन आगताः, अपि च तत् वक्तुमप्यागता: यत् एतत् एकम् अभियानमस्ति। अमेरिकाभूमौ तेन दृढतया उक्तं यत् यदि अधुना आक्रमणं भविष्यति तर्हि भारतं तस्य भयानकं प्रत्युत्तरं दास्यति।

अद्यतनवार्ता

भारतम्

विश्वम्