श्वः अर्थात् गुरुवासरे सायं पाकिस्तानस्य सीमान्तराज्येषु युद्धाभ्यासः भविष्यति। तेषु जम्मू-कश्मीर, गुजरात, हरियाणा, राजस्थानञ्च समाविष्टा: सन्ति। अपरपक्षे पञ्जाबे जूनमासस्य तृतीये दिने अभ्यासः भविष्यति।जनाः सावधाना: भवन्तु इति आह्वानं कृतम् अस्ति। इतः पूर्वं मेमासस्य ७ दिनाङ्के देशस्य २४४ मण्डलेषु युद्धाभ्यासः जात: आसीत्। अस्मिन् आक्रमणकाले नागरिकेभ्यः स्वस्य रक्षणार्थं प्रशिक्षणं दत्तम् आसीत्। चित्रम् - प्रतीकात्मकम्