Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

भारतस्य सप्तसांसदानां सर्वदलीयप्रतिनिधिमण्डलम् आतङ्कवादं प्रति शून्यसहिष्णुतायाः सशक्तं सन्देशं दातुं अनेकदेशानां भ्रमणं कर्तुं गच्छति। सूत्रेषु ज्ञातं यत् शशि थरूरः अमेरिकादेशे, रविशंकरप्रसाद: मध्यपूर्वे, कनिमोझी रूसस्पेनदेशयो:, सुप्रिया सुले दक्षिण-आफ्रिका-मिस्र-केन्यादेशेषु, संजयझा जापान-मलेशियादेशयो:, बैजयन् पाण्डा पश्चिमयुरोपे तथा श्रीकान्तशिण्डे यूएई-आफ्रिकादेशयोः प्रतिनिधित्वं कर्तुं शक्नुवन्ति। इदं भ्रमणं मे-मासस्य २३ दिनाङ्कात् आरभ्य १० दिवसान् यावत् भविष्यति। मण्डलस्य अन्यसदस्येषु अनुराग ठाकुर:, अपराजिता सारंगी, मनीष तिवारी, असदुद्दीन ओवैसी, अमर सिंह:, राजीव प्रताप: रुडी, समिक भट्टाचार्य, बृज लाल, सरफराज अहमद, प्रियंका चतुर्वेदी, विक्रमजीत साहनी, संवित पात्रा, भुवनेश्वर कलिता सहित: विभिन्न दलानां सांसदा: भागं ग्रहीष्यन्ति। 

अद्यतनवार्ता

भारतम्

विश्वम्