Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

गृहमन्त्री अमितशाहः बुधवासरे केन्द्रीयमन्त्रिद्वयेन सह पत्रकारसम्मेलने उक्तवान् यत् प्रधानमन्त्री नरेन्द्रमोदी २८ मे दिनाङ्के मध्याह्ने १२ वादने नूतनसंसद्भवनस्य उद्घाटनं करिष्यति। प्रधानमन्त्री सत्ताहस्तान्तरणस्य प्रतीकं सेङ्गोल् इति राजदण्डं नूतनभवने स्थापयिष्यति। सेङ्गोल् चोलसाम्राज्यस्य परम्परा अस्ति । यदा यदा कश्चित् नृप: भवति तदा तस्मै दण्डोऽयं दीयते। सेङ्गोल इत्यस्य अर्थः भवति - सम्पदा सम्पन्नता।

शाहः अवदत् यत् १९४७ तमस्य वर्षस्य अगस्तमासस्य १४ दिनाङ्के रात्रौ १०:४५ वादने देशस्य प्रथमः प्रधानमन्त्री पण्डितजवाहरलालनेहरू आङ्ग्लेभ्यः सेङ्गोलं गृहीतवान् । तत् तमिलनाडुतः आनीतमासीत्। अधुना प्रयागराजस्य एकस्मिन् संग्रहालये स्थापितः अस्ति। नूतने भवने सभाध्यक्षस्य आसनस्य पार्श्वे स्थापयिष्यते। एतत् स्वतन्त्रताया: अमृतमहोत्सवस्य प्रतिबिम्बं भविष्यति। १९४७ तमवर्षस्य अनन्तरं काङ्ग्रेसपक्षद्वारा तत् विस्मारितम्। कुत्रापि तस्य उल्लेखः न अभवत्। २४ वर्षाणाम् अनन्तरं तमिलविदुषा तस्य चर्चा कृता। २०२१-२२ तमस्य वर्षस्य सर्वकारीयदत्तांशे अस्य उल्लेखः प्राप्यते।

तस्मिन् समये यस्य हस्तात् नेहरूद्वारा सेङ्गोल प्राप्तमासीत् सः एव ९६ वर्षीय: तमिलविद्वान् २८ दिनाङ्के संसदि उपस्थितः भविष्यति। सेङ्गोलस्य उपरि नन्दी अस्ति, पार्श्वेषु काश्चन कलाकृतयः निर्मिताः सन्ति। राजदण्ड: सुवर्णरजतयोः निर्मित: अस्ति। भारते राजदण्डस्य इतिहासः अतीव पुरातनः अस्ति। प्रथमवारं मौर्यसाम्राज्येन (३२२–१८५ ईपू) अस्य उपयोगः कृतः। तदनन्तरं गुप्तसाम्राज्यं (३२०-५५० ई.) पुनः चोलवंशस्य अधीनम् अभवत्। यत्र अधिकं प्रयुक्तम् आसीत्। पश्चात् मुगलानां समीपम् आगतं, यदा आङ्ग्लाः भारतम् आगतवन्तः तदा ब्रिटिश-ईस्ट् इण्डिया-कम्पनीद्वारा‘ तस्य अधिकार: प्राप्त:।

अद्यतनवार्ता

भारतम्

विश्वम्