Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

अरुणाचलप्रदेशे गुरुवासरे भारतीयसेनायाः चीत्ता इति उदग्रयानस्य दुर्घटना अभवत्। समाचारसंस्थायाः अनुसारं उदग्रयानस्य दुर्घटना मण्डलापर्वतक्षेत्रे अभवत् । उभयोः विमानचालकयोः शवौ प्राप्तौ। लेफ्टिनेंट कर्नल वी.वी.बी.रेड्डी तथा मेजर जयन्त ए. उदग्रयाने आस्ताम्। सेनाविमाननविभागस्य चीत्ता इति उदग्रयानं अरुणाचलप्रदेशस्य बोमडियालस्य समीपे उड्डयनम् आरब्धम् आसीत्। प्रातः ९:१५ वादने वायुयाननियन्त्रणेन (ATC) सह सम्पर्कः नष्टः अभवत्।

 

अद्यतनवार्ता

भारतम्

विश्वम्