Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

एनसीबी इत्यस्य पूर्वक्षेत्रनिदेशकः समीरवानखेडे कथयति यत् अपराधिवर्गस्य मुख्यस्य दाऊद इब्राहिमस्य नामधेयेन तस्मै तस्य परिवाराय च मृत्युभर्त्सना दीयते।

वानखेडे अवदत् यत् सः अनधिकृतट्विट्टरलेखामाध्यमेन भर्त्सनं प्राप्नोति। तदनन्तरं वानखेडे मुम्बईपुलिसदलस्य वरिष्ठाधिकारिभ्यः सूचनां दत्तवान्।

समीरस्य उपरि सम्प्रति उत्कोचाग्रहस्य आरोपः अस्ति । तस्य विरुद्धं सीबीआइ इत्यनेन प्राथमिकी पञ्जीकृता अस्ति। अन्वेषणसंस्थायाः कथनमस्ति यत्, कोर्डेलियाक्रूज्-मादकद्रव्यप्रकरणे शाहरुखखानस्य पुत्रस्य आर्यनस्य मुक्तिविनिमयरूपेण समीनः २५ कोटिरूप्यकाणां आग्रहं कृतवान् आसीत्।

अस्मिन् प्रकरणे वानखेडे सहितं ५ जनानां विरुद्धं सीबीआई इत्यनेन प्राथमिकी पञ्जीकृता अस्ति। परन्तु ग्रहणं परिहर्तुं वानखेडे न्यायालयस्य समीपं गतः। न्यायालयेन तस्य ग्रहणं जूनमासस्य ८ दिनाङ्कपर्यन्तं स्थगितम् आसीत्।

अद्यतनवार्ता

भारतम्

विश्वम्