Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

होंगझोउ-नगरे जायमाने एशियाड-क्रीडोत्सवस्य १२ तमे दिने भारतेन उत्तमं प्रदर्शनं कृतम्। अद्य भारतेन ५ पदकानि प्राप्तानि। अस्मिन् ३ सुवर्णपदकानि, १ रजतं, एकं कांस्यं च प्राप्तानि। अधुना भारतस्य आहत्य ८६ पदकानि सन्ति। यस्मिन् २१ सुवर्णानि सन्ति। 

दिवसस्य प्रथमं पदकं धनुर्विद्यायां प्राप्तम् । धनुर्विद्यायाः यौगिकपरिक्रमे ज्योतिसुरेखा, अदिति गोपीचन्द स्वामी, परिनीत कौर एत्येतासां प्रदर्शनेन स्वर्णं प्राप्तम्। तदनन्तरं भारतस्य दीपिका पल्लिकालः हरिन्दर् पालसिंहः च स्क्वॉश-क्रीडायां स्वर्णं प्राप्तवन्तौ । धनुर्विद्यायाः पुरुषकम्पाउण्ड् स्पर्धायां ओजसप्रवीणः, अभिषेकवर्मा, प्रथमेशमाधानः च इति तृतीयं स्वर्णपदकं प्राप्तवन्त:।

अद्यतनवार्ता

भारतम्

विश्वम्