Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

अद्य संसद: शीतकालीनसत्रस्य अष्टमे दिवसे संसद: सुरक्षायां महान् प्रमाद: दृष्ट:। प्रवर्तमाने लोकसभाकार्ये द्वौ युवकौ सहसा प्रेक्षकखण्डतः कूर्दितवन्तौ, अपि च धूमशलाकां ज्वालितवन्तौ येन समग्रं स्थानं धूमयुक्तं जातम्। एतेन संसद: कार्यं स्थगितं जातम्। संसदि एतादृशेन दुष्कृत्येन सुरक्षाकार्ये अपि प्रश्नार्थचिह्नं उद्भूतमस्ति।

अद्यतनवार्ता

भारतम्

विश्वम्