Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

अयोध्यामन्दिरे भगवत: रामस्य दर्शनार्थं आभारतात् लक्षश: भक्ताः समुपस्थिताः भवन्ति। अधुना रामभक्तानां सेवार्थं बगदाणा-गुरु-आश्रमद्वारा श्वः (जनवरी २९) तः बजरंगदासबापा इत्यस्य पुण्यतिथित: आरभ्य सर्वकारस्य विशेषानुमोदनेन अन्नक्षेत्रस्य आरम्भः भविष्यति। बगदाना गुरुआश्रमद्वारा प्रबन्धित बापा सीताराम अन्नक्षेत्रस्य पाचका: स्वयंसेवका: च आहत्य २०० जनानां दलं अयोध्यां प्राप्तम्। अस्मिन् अन्नक्षेत्रे प्रातःकाले चायपौआ, प्रातः ११ वादनतः सायं ४ वादनपर्यन्तं भोजनमहाप्रसादं, सायं ७ वादनतः १० वादनपर्यन्तं भोजनमहाप्रसादं च वितरितं भविष्यति। 

अद्यतनवार्ता

भारतम्

विश्वम्