Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

युववल्लकेन ऋतुराजगायकवाडेन सोमवासरे इतिहासः रचितः। विजयहजारेस्पर्धायां उत्तरप्रदेशविरुद्धं महाराष्ट्रदलतः क्रीडता तेन एकस्मिन् पर्यासे एव सप्तवारं षट्कं साधितम्। एकदिवसीयक्रीडायां एतादृशं पराक्रमं केवलं तेन एव कृतम् अस्ति। 49तमे पर्यासे एकं कन्दुकं अयोग्यमासीत् तेन कारणेन अयं पर्यासः सप्तकन्दुकानां अभवत्। तेन प्रत्येकं कन्दुके षट् धावनाङ्काः प्राप्त्ता:। एतस्मिन् पर्यासे तेन त्रिचत्वारिंशत् धावनाङ्काः प्राप्ताः। आहत्य तेन 159 कन्दुकेषु 220 धावनाङ्काः प्राप्ताः यत्र 16 षट्कानां समावेशः अस्ति। 

अद्यतनवार्ता

भारतम्

विश्वम्