Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

कतिपयदिनेभ्य: निरन्तरवृष्ट्या भारतस्य पूर्वोत्तरराज्येषु जलप्लावनम् अभवत्। पूर्वोत्तरराज्येषु जलप्रलयकारणात् मार्गपरिवहनं, रेलयानं, नौकायानसेवा चापि प्रभाविता अस्ति। तस्मिन् एव काले असम-त्रिपुरा-सिक्किम-अरुणाचल-प्रदेशे जलप्रलयेन ३० जना: मृता: सन्ति। 

भारतीयजलवायुविभागेन राज्येषु जलप्रलयकारणात् मार्गपरिवहनं, भूस्खलनं, सस्यनाश:, विद्युत्प्रदायसमस्या च विषये सूचना दत्ता अस्ति। त्रिपुरायां प्रचण्डवृष्टे: जलप्रलयस्य च स्थितिं दृष्ट्वा आहत्य १३०० परिवाराः राहतशिबिरेषु स्थानान्तरिताः सन्ति।

अद्यतनवार्ता

भारतम्

विश्वम्