Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

चीनदेशे कोरोना-संक्रमणं वर्धमानमस्ति। एतेन जिनपिंगरचितायाः कोरोनानीतिविरुद्धं जनाः प्रदर्शनं कुर्वन्तः सन्ति। जनैः जिनपिंगस्य त्यागपत्रं याचन्ते। पञ्चविंशतिदिनाङ्के शिंजियांगस्थाने एकस्मिन् भवने ज्वलनदुर्घटनायां अग्निशमनदलः कोरोनानीतिकारणेनैव शीघ्रं प्राप्तुम् असमर्थाः, दश जनाः च मृताः ।  एतेन विरोधोऽयं उग्रतरं जातमस्ति। जनैः उक्तं यत् वयं एकाधिपतित्वं न परन्तु प्रजातन्त्रम् इच्छामः। तेषां विरोधफलकेषु अपि "मानवाधिकारः आवश्यक:", "स्वतन्त्रता आवश्यकी"। कोरोनानीतिकारणेन आईफोन-निर्माण-क्षेत्रे अपि कर्मकराणां सुरक्षाकर्मचारिभिः सह हिंसककलहः जातः। 

अद्यतनवार्ता

भारतम्

विश्वम्