Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

आगामिमार्चमासात् नागरिकतासंशोधनाधिनियमं (CAA) कार्यान्वितुं निश्चितमस्ति। मार्चमासस्य प्रथमसप्ताहे लोकसभानिर्वाचनस्य घोषणा भविष्यति। तस्मिन् केन्द्रसर्वकारः आचारसंहिता-कार्यान्वयनात् पूर्वमेव क्रियान्वयनस्य निर्णयं कर्तुं गच्छति। पाकिस्तान-अफगानिस्तान-बाङ्गलादेशेभ्य: उत्पीडनस्य अनन्तरं भारते प्राप्तशरणा: हिन्दुजैन-बौद्ध-सिक्ख-जना: अस्य लाभं प्राप्स्यन्ति। अस्मिन् नियमे २०१४ तमस्य वर्षस्य डिसेम्बर्-मासस्य ३१ दिनाङ्कपर्यन्तं ये उत्पीडनग्रस्ता: जनाः समीपस्थेभ्यः देशेभ्यः आगताः ते भारतीयनागरिकतां प्राप्तुं शक्नुवन्ति। अफगानिस्तानं, पाकिस्तानं, बाङ्गलादेशः च इस्लामिकदेशाः सन्ति तथा च हिन्दु-बौद्ध-सिक्ख-जैन-जना: अल्पसंख्यकाः सन्ति।

चित्रम् - प्रतीकात्मकम् 

अद्यतनवार्ता

भारतम्

विश्वम्