Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

जलवायुपरिवर्तनस्य प्रभावं दृष्ट्वा वैज्ञानिकैः सूचितं यत् एतेन वर्धिते तापमाने नैकानां जीवानां लिङ्गपरिवर्तनं जायमानमस्ति। संशोधनेन ज्ञातं यत् गुणसुत्रैः तापमानेन च लिङ्गनिर्धारणं भवति। परन्तु एतत् भृणविकाससमये एव शक्यम्। अण्डपोषणसमये अधिकतापमानकारणात् नरः अपि स्त्रीत्वं प्राप्नोति। स्त्रीसरिसृपेषु नरसरिसृपाणाम् अपेक्षया अधिकं तापमानं सोढुं सामर्थ्यमस्ति। एतादृशं परिवर्तनं सरिसृपाणां अस्तित्वाय समस्यां जनयितुं शक्नोति।

अद्यतनवार्ता

भारतम्

विश्वम्