Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

उज्जयिनीस्थस्य महर्षिपाणिनि-संस्कृतवैदिकविश्वविद्यालयस्य कार्यपरिषदः उपवेशनं  ऑक्टोबरमासस्य चतुर्तमेदिनाङ्के बुधवासरे विश्वविद्यालयस्य पतञ्जलिभवने अभवत् ।  सभायाः अध्यक्षता विश्वविद्यालयस्य माननीयकुलपतिः आचार्यविजयकुमारः सीजीमहोदयः अकरोत्।  सभायाः आरम्भे सर्वैः कार्यपरिषद्सदस्यैः  शासनस्य उच्चशिक्षाविभागस्य आभारम् अभिनन्दनं च कृतम्। यतोहि उच्चशिक्षाविभागस्य प्रयासेन  विश्वविद्यालयस्य प्रथमपरिसर; रीवानगरे उद्घाटितः। उपवेशने  सेवानिवृत्त: आचार्य: किशनपालविश्वकर्मामहोदयस्य विश्वविद्यालयस्य लोकपालपदे नियुक्ते: अनुमोदनं कार्यपरिषदि अभवत्। विश्वविद्यालयपरिसरे  कुलपति: आवास: अतिथिनिवास: एवञ्च  वाहनस्थानकस्य निर्माणस्य प्रस्तावा:  स्वीकृता:  उपवेशने पूर्वे निर्णीतानां निर्णयानां पालनप्रतिवेदनस्य अनुमोदनं  चाभवत्।  कार्यपरिषद्: उपवेशने राज्यपालमहोदयेन  नामांकिता: सदस्या: श्रीराजेंद्रझालानी,  श्रीसुशीलवाडिया,  श्रीमतीकिरणशर्मा, श्रीमतीउषाठाकुर, एवञ्च  विश्वविद्यालस्य  डॉ. उपेंद्रभार्गव: डॉ.संकल्पमिश्र: उपस्थिता: आसन्। उपवेशने वित्तनियंत्रक: श्रीदिनेशचौरसियामहोदय: विशेषामंत्रित सदस्यरूपेण उपस्थित: आसीत्। कार्यपरिषदि कुलसचिवेन डॉ. दिलीपसोनी महोदयेन कार्यसूच्या: प्रस्तुतिकरणं कृतम्।

वार्ताहर: - डॉ.दिनेश: चौबे, उज्जयिनी

अद्यतनवार्ता

भारतम्

विश्वम्