विश्वस्य अनेकेषु देशेषु पुनश्च कोरोनाविषाणो: प्रभाव: वर्धित: अस्ति, भारते अपि विषयेऽस्मिन् चिन्ता वर्धिता अस्ति। स्वास्थ्यसंस्थानां विशेषज्ञैः सह निरन्तरं मेलनानि क्रियन्ते, सर्वकारः सतर्कस्थितौ च अस्ति। परन्तु भारतस्य स्थितिः सर्वथा नियन्त्रणे अस्ति, तस्य चिन्तायाः आवश्यकता नास्ति इति अधिकारिभिः स्पष्टं कृतम् अस्ति। तथ्याङ्कानुसारं भारते मे १२ तः केवलं १६४ कोविड्-१९ विषाणो: प्रकरणानि अभिज्ञातानि सन्ति। अस्यां सूचौ केरलस्य नाम सर्वोपरि अस्ति। तत्र सम्प्रति ६९ कोरोनारोगिण: सन्ति। तदनन्तरं महाराष्ट्रे ४४ रोगिणः, तमिलनाडुराज्ये ३४, कर्नाटके ८, गुजराते ६, दिल्लीनगरे च प्रायः ३ रोगिण: सन्ति। एतदतिरिक्तं हरियाणा-राजस्थान-सिक्किम-राज्येषु एकैकं प्रकरणम् अस्ति। एशियाक्षेत्रे कोरोना-प्रकरणानाम् वर्धनस्य कारणं कोरोना-विषाणो: नूतनः प्रकारः अस्ति।