Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

कार्तिकपूर्णिमायाः शुभावसरे समग्रे भारते देवदीपावल्याः आचरणं जायते। काश्या: अष्टाशीति-नदीघट्टाः दशलक्षदीपैः प्रकाशिताः। तथैव उज्जैननगर्यां महाकाललोके क्षिप्रातटे पुष्करधाम्‍नि 52 घट्टेषु दीपैःसुशोभनम् जातम् अस्ति। पौराणिकमान्यतानुसारं कार्तिकपूर्णिमायां एव भगवता शिवेन त्रिपुरासुरस्य संहारः कृतः आसीत् । एतस्य आनन्दोत्सवे सर्वेऽपि देवाः काश्यां गङ्गाघट्टे अवतीर्णा: दीपाः अपि ज्वालिताः। अतः उत्सव: अयं देवदीपावली इति नाम्ना प्रसिद्धः जात:।

अद्यतनवार्ता

भारतम्

विश्वम्