Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

राज्यसभासांसदस्य झारखण्ड-ओडिशाराज्ययो: निगूधस्थानेषु  आयकरविभागस्य आपाते कोटि-कोटि-मूल्यकं रोकधनं प्राप्तमस्ति। काङ्ग्रेसनेतु: निगूढस्थानात् एतावत: महत: रोकधनात् दलस्य उपरि सर्वतः आक्रमणं क्रियते। तस्मिन् एव काले सञ्चारमाध्यमानां विपक्षाणां च आरोपैः ग्रस्तस्य कोंग्रेसदलस्य केचन नेतारः अस्मिन् विषये लज्जन्ते, केचन नेतारः तु स्वसमर्थने वक्तव्यं यच्छन्ति। काङ्ग्रेसनेता अविनाशपाण्डेयः विपक्षस्य आरोपाणां स्पष्टीकरणं कुर्वन् अवदत् यत् सञ्चारमाध्यमै: विपक्षैः च क्रियमाणानां आरोपाणाम् अद्यापि पुष्टिः न कृता। दलेन स्पष्टतया उक्तं यत् एषः धीरजसाहु इत्यस्य व्यक्तिगतः विषयः अस्ति, दलस्य तया सह किमपि सम्बन्धः नास्ति। एषा अपि वार्ता प्राप्यते यत् धनमिदं नेतॄणां क्रयणाय आरक्षितम् आसीत्। ५ दिनेभ्य: नैकै: यन्त्रै: कृता गणना ३०० कोटित: अधिका जाता अस्ति। इतोऽपि प्राप्तधनस्य मूल्यं ५०० कोटि: भवितुं सम्भावना अस्ति। केचन नेतार: वदन्ति यत् धनमिदं परंपरागतं व्यवसायेन च प्राप्तमस्ति।

अद्यतनवार्ता

भारतम्

विश्वम्