Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

अयोध्यायां एकतः राममन्दिरस्य रामस्य प्राणप्रतिष्ठाकार्यक्रमस्य सिद्धता  क्रियन्ते, अपरतः दिल्लीनगरस्य आम आदमीपक्षेण प्रतिमासं 'सुन्दरकाण्ड'पाठस्य आयोजनस्य घोषणा कृता अस्ति। देहल्यां प्रतिमासं प्रथमे मङ्गलवासरे अयं पाठ: मदिरेषु भविष्यति। अरविन्द केजरीवालस्य दलेन कृता एषा घोषणा एआईएमआईएम-प्रमुखः असदुद्दीन ओवैसी इत्यस्मै नारोचत । तेनोक्तं यत् विपक्षनेतार: अपि प्रधानमन्त्रिण: मोदिन: योजनाया: अनुसरणं कुर्वन्ति। अद्यत्वे निर्वाचने मतानि प्राप्तुं हिन्दुत्वस्य स्पर्धा जायमाना अस्ति।

अद्यतनवार्ता

भारतम्

विश्वम्