Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

विगतदशकेषु देशस्य अनेकभागेषु अमेरिकादेशे निवसतां हिन्दूनां विरुद्धं द्वेष-अपराधाः जायन्ते। एतस्य विरुद्धं ज्योर्जियाराज्ये राज्यस्य धारासभायां प्रस्तावः पारितः। प्रस्तावे उक्तं यत् हिन्दु-भयस्य संस्थागतीकरणं केभ्यश्चित् शिक्षाविद्भिः कृतम् अस्ति। ज्योर्जिया प्रथमं राज्यम् अस्ति येन हिन्दूनां भावानां सम्मानं कृत्वा  एतादृश: प्रस्तावः पारितः। 

सङ्कल्पप्रस्तावे उक्तं यत्  हिन्दुभयस्य, हिन्दुविरोधिनां च चिन्तनजडतायाः  निन्दां कुर्वन् संकल्पे उक्तं यत् हिन्दुधर्मः विश्वस्य बृहत्तमेषु प्राचीनतमेषु च धर्मेषु अन्यतमः अस्ति, यस्य कोटिशः अनुयायिनः १०० तः अधिकेषु देशेषु साहचर्येण निवसन्तः सन्ति।  परस्परसम्मानस्य शान्तेः च मूल्यैः सह एते विविधपरम्पराणां विश्वासव्यवस्थायाः च आदरं कुर्वन्ति।

लॉरेन् मेक्डोनाल्ड्, टोड् जोन्स् च इत्येताभ्यां प्रस्तावः स्थापितः। संकल्पे उक्तं यत् अमेरिकन-हिन्दुसमुदायः चिकित्सा, विज्ञानं, अभियान्त्रिकी, सूचनाप्रौद्योगिकी, आतिथ्यं, वित्तं, शिक्षा, निर्माणं, ऊर्जा, व्यापारः इत्यादिषु विविधक्षेत्रेषु प्रमुखं योगदानं ददाति। अपि च योगे, आयुर्वेदे, ध्याने, भोजने, संगीते, कलायां च समुदायस्य योगदानेन सांस्कृतिकपरम्परा उन्नता जाता अस्ति। देशे परम्परा इयं व्यापकरूपेण स्वीकृता अस्ति।

अद्यतनवार्ता

भारतम्

विश्वम्