Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

काङ्ग्रेसविरुद्धं विद्रोहं कृत्वा नूतनं दलं निर्मितवान् गुलामनबी-आजादः प्रधानमन्त्रिणः नरेन्द्रमोदिनः प्रशंसाम् अकरोत्। एतदतिरिक्तं आजादः जयरामरमेश, सलमानखुर्शीद इत्यादीनां वरिष्ठकाङ्ग्रेसनेतृणां विरुद्धं राजनैतिकवैचारिकसङ्घर्षसम्बद्धान् गम्भीरान् आरोपान् कृतवान् अस्ति।

गुलामनबीआजादस्य आत्मकथा 'आजाद' इत्यस्य विमोचनं बुधवासरे भविष्यति। काङ्ग्रेसनेता पूर्वकेन्द्रीयमन्त्री करणसिंहः तस्य विमोचनं करिष्यति। अस्मिन् विषये आजादः स्वस्य ५५ वर्षाणां राजनैतिकानुभवानाम् उल्लेखं कृतवान् अस्ति। पुस्तकस्य विमोचनात् पूर्वं आजादस्य वक्तव्यं प्राप्तम् अस्ति। 

आजादेन मंगलवासरे समाचारसंस्थया ए.एन.आइ. इत्यस्यै दत्ते साक्षात्कारे उक्तं यत् अहं यत् व्यवहारं तं प्रति कृतवान्, सः च मां प्रति यत् व्यवहारं कृतवान् तस्य सम्पूर्णं श्रेयः प्रधानमन्त्रिणे दातव्यम्। सः अतीव उदारः अस्ति। विपक्षस्य नेतृरूपेण अहं तं कस्मिन् अपि विषये न त्यक्तवान्, अनुच्छेदः ३७०, सीएए, हिजाबः वा यत्किमपि। तथापि मोदी कदापि प्रतिशोधभावेन व्यवहारं न कृतवान् । सः सर्वदा मृदुहृदयस्य राजनेता इव व्यवहारं करोति स्म।

अद्यतनवार्ता

भारतम्

विश्वम्