Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

पञ्जाबस्य स्वर्णमन्दिरस्य बालिकायाः प्रवेशनिषेधप्रकरणे खालिस्तानसमर्थकेन प्रतिबन्धितेन ’सिख फोर जस्टिस’ (SFJ) इति सङ्घटनेन स्वयंसेवकाय ५ लक्षरूप्यकाणां पुरस्कारराशिं दातुम् उद्घोषणा कृता अस्ति। तेन स्वयंसेवकेन कपोले राष्ट्रध्वजं चित्रितवतीं बालिकां निरुध्य उक्तमासीत् यत् अयं पञ्जाबः, न भारतम्। इति। 

एतेन सम्बद्धं एकं चलचित्रं एसएफजे प्रमुखेण गुरपतवन्तसिंह पन्नू इत्यनेन विमोचितम् अस्ति। पन्नूः अवदत् यत् स्वयंसेवकाय सरबजीतसिंहाय ५ लक्षरूप्यकाणि दास्यामः, यः बालिकां स्वर्णमन्दिरात् बहिः नीतवान्। पञ्जाबः भारतस्य भागः नास्ति, एषः सन्देशः साक्षात् स्वर्णमन्दिरात् आगतः। भारतसर्वकारेण १९८४ तमे वर्षे स्वर्णमन्दिरस्य उपरि यः ध्वजः आरोहितः, सः ध्वजः स्वर्णमन्दिरस्य अन्तः गन्तुं न शक्नोति। सराबजीतेन प्रत्येकं सिक्खस्य मनसः विषयं भारतसर्वकाराय प्रसारितः।

अद्यतनवार्ता

भारतम्

विश्वम्